अ॒ग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्याश्च॑ मेऽकृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ मे वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्
agníś ca me ā́paś ca me vīrúdhaś ca me óṣadhayaś ca me kṛṣṭapacyā́ś ca me ’kṛṣṭapacyā́ś ca me grā́myāś ca me paśáva āraṇyā́ś ca me vittáṃ ca me víttiś ca me bhūtáṃ ca me bhū́tiś ca me yajñéna kalpantām
Sean míos Agni y las Aguas; sean mías las plantas y las hierbas curativas; sea mío lo que madura por el cultivo y lo que madura sin cultivo; sean míos los ganados del poblado y las criaturas del bosque; sea mía la riqueza y la obtención de riqueza; sean míos lo ya devenido y la prosperidad. Que todo ello se disponga conforme al sacrificio (yajña).
अ॒ग्निः । च॒ । मे॒ । आपः । च॒ । मे॒ । वी॒रुधः । च॒ । मे॒ । ओषधयः । च॒ । मे॒ । कृष्ट-प॒च्याः । च॒ । मे॒ । अ-कृष्ट-प॒च्याः । च॒ । मे॒ । ग्रा॒म्याः । च॒ । मे॒ । प॒शवः । आ॒र॒ण्याः । च॒ । मे॒ । वि॒त्तम् । च॒ । मे॒ । वित्तिः । च॒ । मे॒ । भू॒तम् । च॒ । मे॒ । भूतिः । च॒ । मे॒ । य॒ज्ञेन॑ । क॒ल्प॒न्ता॒म् ।