र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे पू॒र्णं च॑ मे पू॒र्णत॑रं च मे॒ कुय॑वं च॒ मेऽक्षि॑तं च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च्च मे य॒ज्ञेन॑ कल्पन्ताम्
rayiś ca me rāyaś ca me puṣṭaṃ ca me puṣṭiś ca me vibhu ca me prabhu ca me pūrṇaṃ ca me pūrṇataraṃ ca me kuyavaṃ ca me ’kṣitaṃ ca me ’nnaṃ ca me ’kṣu ca me yajñena kalpantām
Sean míos la riqueza (rayi) y los tesoros; sean míos el florecimiento y el sustento; sean míos el amplio dominio y el poder señorial; sean míos la plenitud y una plenitud aún mayor; sea mío el grano kuyava; sea mío lo inagotable; sea mío el alimento; y sea mía la caña de azúcar: por el sacrificio (yajña), que todo ello quede dispuesto para mí.
रयिः । च । मे । रायः । च । मे । पुष्टम् । च । मे । पुष्टिः । च । मे । विभु । च । मे । प्रभु । च । मे । पूर्णम् । च । मे । पूर्ण-तरम् । च । मे । कुयवम् । च । मे । अक्षितम् । च । मे । अन्नम् । च । मे । अक्षु । च । मे । यज्ञेन । कल्पन्ताम् ।