अ॒यᳪ सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्र॑: सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः । स॒ह॒स्रियं॒ वाज॒मत्यं॒ न सप्ति॑ᳪ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः
ayáṃ só agnír yásmin sómam índraḥ sutáṃ dadhé jaṭháre vāvāśānáḥ | sahasríyaṃ vā́jam átyaṃ ná saptíṃ sasavā́nt san stū́yase jātavedaḥ
Este es aquel Agni en quien Indra, anhelante, puso en su vientre el Soma exprimido. Mil veces el premio conquistas, como un caballo, como un corcel veloz; como vencedor eres alabado, oh Jātavedas.
अयम् । सः । अग्निः । यस्मिन् । सोमम् । इन्द्रः । सुतम् । दधे । जठरे । वावशानः । सहस्रियम् । वाजम् । अत्यम् । न । सप्तिम् । ससवान् । सन् । स्तूयसे । जातवेदः ।