आपो॑ देवी॒ः प्रति॑ गृभ्णीत॒ भस्मै॒तत्स्यो॒ने कृ॑णुध्वᳪ सुर॒भा उ॑ लो॒के । तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी॑र्मा॒तेव॑ पु॒त्रं बि॑भृता॒प्स्वे॒नत्
ā́po devī́ḥ práti gṛbhṇīta bhásmaitát syóne kṛṇudhvaṃ surábhā u loké | tásmai namantāṃ jánayaḥ su-pátnīr mā́teva putráṃ bíbhratāpsv ènát
Oh Aguas divinas, recibid esta ceniza; en un asiento benigno hacedla reposar, fragante en el mundo. Ante ella inclínense las madres, las buenas esposas, llevándola en las aguas como una madre lleva a su hijo.
आपः । देवीः । प्रति । गृभ्णीत । भस्म । एतत् । स्योनॆ । कृणुध्वम् । सुरभाः । उ । लोके । तस्मै । नमन्ताम् । जनयः । सु-पत्न्यः । माता-इव । पुत्रम् । बिभ्रत । अप्सु । एनत्