प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्त्व॒यम॒मुष्य॑ पि॒तासाव॒स्य पि॒ता व॒यᳪ स्या॑म॒ पत॑यो रयी॒णाᳪ स्वाहा॑ । रुद्र॒ यत्ते॒ क्रिवि॒ परं॒ नाम॒ तस्मि॑न्हु॒तम॑स्यमे॒ष्टम॑सि॒ स्वाहा॑
prajā́pate ná tvád etā́ny anyó víśvā rūpā́ṇi pári tā́ babhūva | yátkāmās te juhúmas tán no astv ayám amúṣya pitā́sāv asyá pitā vayáṃ syāma pátayo rayīṇā́ṃ svā́hā | rudrá yát te krívi paráṃ nā́ma tásmin hutám asy améṣṭam asi svā́hā
Oh Prajāpati, nadie sino tú ha abarcado en torno todas estas formas. Los deseos tuyos que aquí ofrecemos, que sean nuestros: que éste sea el padre de aquél, y aquél el padre de éste; que lleguemos a ser señores de las riquezas — Svāhā. Oh Rudra, ese nombre tuyo supremo, «Krivi»: en él está esta oblación, en él está esta ofrenda — Svāhā.
प्रजा॑-पते । न । त्वत् । ए॒तानि । अ॒न्यः । विश्वा॑ । रू॒पाणि॑ । परि॑ । ताः । ब॒भू॒व॒ । यत् । का॒माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । अ॒यम् । अ॒मुष्य॑ । पि॒ता । अ॒सौ । अ॒स्य । पि॒ता । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् । स्वाहा॑ । रुद्र॑ । यत् । ते॒ । क्रिवि॑ । परम् । नाम॑ । तस्मिन् । हु॒तम् । अ॒सि॒ । म॒ इ॒ष्टम् । अ॒सि॒ । स्वाहा॑