म॒हाँ२ इन्द्रो॒ वज्र॑हस्तः षोड॒शी शर्म॑ यच्छतु । हन्तु॑ पा॒प्मानं॒ योऽस्मान्द्वेष्टि॑ ।। उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा
mahā́n índro vájrahastaḥ ṣoḍaśī śárma yacchatu | hántu pā́pmānaṃ yó ’smān dvéṣṭi || upayā́magṛhīto ’si mahéndrāya tvā́iṣá te yónir mahéndrāya tvā
May great Indra, the thunderbolt-handed, the Ṣoḍaśin, grant us shelter; may he smite the evil one who hateth us. Taken with the Upayāma art thou: for great Indra thee! This is thy womb: for great Indra thee!
म॒हान् । इन्द्रः॑ । वज्र॑हस्तः । षोड॒शी । शर्म॑ । यच्छतु । हन्तु॑ । पा॒प्मान॑म् । यः । अ॒स्मान् । द्वेष्टि॑ । उ॒प॒या॒म-गृ॑हीतः । अ॑सि । महे॒न्द्राय॑ । त्वा । ए॒षः । ते॒ । योनि॑ः । महे॒न्द्राय॑ । त्वा