अ॒ग्निर्दे॒वता॒ वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑ ऽऽदि॒त्या दे॒वता॑ म॒रुतो॑ दे॒वता॒ विश्वे॑ दे॒वा देवता॒ बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑
agnír devátā vā́to devátā sū́ryo devátā candrámā devátā vásavo devátā rudrā́ devátā ādityā́ devátā marúto devátā víśve devā́ devátā bṛ́haspátir deváténdro devátā váruṇo devátā
Agni is the deity; Wind is the deity; the Sun is the deity; the Moon is the deity; the Vasus are the deity; the Rudras are the deity; the Ādityas are the deity; the Maruts are the deity; all the Gods are the deity; Bṛhaspati is the deity; Indra is the deity; Varuṇa is the deity.
अग्निः । देवता । वातः । देवता । सूर्यः । देवता । चन्द्रमा । देवता । वसवः । देवता । रुद्राः । देवता । आदित्याः । देवता । मरुतः । देवता । विश्वे । देवाः । देवता । बृहस्पतिः । देवता । इन्द्रः । देवता । वरुणः । देवता ।