सं ते॒ पया॑ᳪसि॒ समु॑ यन्तु॒ वाजा॒ः सं वृष्ण्या॑न्यभिमाति॒षाह॑ः । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवा॑ᳪस्युत्त॒मानि॑ धिष्व
saṃ te pāyāṃsi samu yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ | āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣva ||
Together may thy nourishing juices, together thy prizes of strength, together thy manly powers, O Soma, thou conqueror of assailing foes, come hither. Swelling for immortality, O Soma, set thou for us in heaven the highest renowns.
सम् । ते । पयांसि । समु । यन्तु । वाजाः । सम् । वृष्ण्यानि । अभि-माति-साहः । आप्यायमानः । अमृताय । सोम । दिवि । श्रवांसि । उत्तमानि । धिष्व