हस्त॑ आ॒धाय॑ सवि॒ता बिभ्र॒दभ्रि॑ᳪ हिर॒ण्ययी॑म् । अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याऽभ॑र॒दानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत्
hásta ādhā́ya savitā́ bíbhrad ábhrim̐ hiraṇyáyīm | agnér jyótiḥ nicā́yya pṛthivyā́ ádhy ā́bharad ánuṣṭubhena chándasā’ṅgirasvát
Having laid his hand thereon, Savitar, bearing the golden spade, having marked the light of Agni, brought it forth from the Earth, with the Anuṣṭubh metre, even as did the Aṅgirases.
हस्त॑ः । आ॒धाय॑ । स॒वि॒ता । बि॒भ्र॒त् । अभ्रि॑म् । हि॒र॒ण्ययी॑म् । अ॒ग्नेः । ज्योति॑ः । नि॒चाय्य॑ । पृ॒थि॒व्याः । अधि॑ । आऽभ॑रत् । अनु॑ष्टुभेन । छन्द॑सा । अ॒ङ्गि॒र॒स्वत् ।