Sukta 9.47
अया सोमः सुकृत्यया महश्चिदभ्यवर्धत । मन्दान उद्वृषायते ॥
अ॒या सोम॑: सुकृ॒त्यया॑ म॒हश्चि॑द॒भ्य॑वर्धत । म॒न्दा॒न उद्वृ॑षायते ॥
ayā́ sómaḥ su-kṛtyáyā maháś cid abhy àvardhata | mandāná ud vṛṣāyate ||
By this right-doing Soma has grown, even to greatness; rejoicing, he rises and pours himself forth in a virile surge.
अ॒या । सोमः॑ । सु॒ऽकृ॒त्यया॑ । म॒हः । चि॒त् । अ॒भि । अ॒व॒र्ध॒त॒ । म॒न्दा॒नः । उत् । वृ॒ष॒ऽय॒ते॒ ॥अया । सोमः । सुकृत्यया । महः । चित् । अभि । अवर्धत । मन्दानः । उत् । वृषयते ॥ayā | somaḥ | su-kṛtyayā | mahaḥ | cit | abhi | avardhata | mandānaḥ | ut | vṛṣa-yate