Sukta 9.41
प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः । घ्नन्तः कृष्णामप त्वचम् ॥
प्र ये गावो॒ न भूर्ण॑यस्त्वे॒षा अ॒यासो॒ अक्र॑मुः । घ्नन्त॑: कृ॒ष्णामप॒ त्वच॑म् ॥
prá ye gā́vo na bhū́rṇayas tveṣā́ ayā́so ákramuḥ | ghnántaḥ kṛṣṇā́m ápa tvácam ||
Forth they surge like cattle in a whirling rush—bright, tireless energies that stride on, striking away the black skin: the covering of obscurity.
प्र । ये । गावः॑ । न । भूर्ण॑यः । त्वे॒षाः । अ॒यासः॑ । अक्र॑मुः । घ्नन्तः॑ । कृ॒ष्णाम् । अप॑ । त्वच॑म् ॥प्र । ये । गावः । न । भूर्णयः । त्वेषाः । अयासः । अक्रमुः । घ्नन्तः । कृष्णाम् । अप । त्वचम् ॥pra | ye | gāvaḥ | na | bhūrṇayaḥ | tveṣāḥ | ayāsaḥ | akramuḥ | ghnantaḥ | kṛṣṇām | apa | tvacam