Sukta 9.4
सना च सोम जेषि च पवमान महि श्रवः । अथा नो वस्यसस्कृधि ॥
सना॑ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रव॑: । अथा॑ नो॒ वस्य॑सस्कृधि ॥
sanā́ ca soma jeṣi ca pávamāna máhi śrávaḥ | áthā no vásyasas kṛdhi ||
O Soma, ever and again conquer for us; O purifying one, win vast glory. Then shape us into a more luminous well-being.
सना॑ । च॒ । सो॒म॒ । जेषि॑ । च॒ । पव॑मान । महि॑ । श्रवः॑ । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥सना । च । सोम । जेषि । च । पवमान । महि । श्रवः । अथ । नः । वस्यसः । कृधि ॥sanā | ca | soma | jeṣi | ca | pavamāna | mahi | śravaḥ | atha | naḥ | vasyasaḥ | kṛdhi