Sukta 8.34
एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
एन्द्र॑ याहि॒ हरि॑भि॒रुप॒ कण्व॑स्य सुष्टु॒तिम् । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
éndra yāhi háribhir úpa káṇvasya suṣṭutím | divó amúṣya śā́sato dívaṃ yáya divāvaso ||
O Indra, come with the tawny powers and draw near to the well-shaped praise of the Kānva. From that heaven of commanding truth, travel to this heaven in us, O lord of the luminous day-force.
आ । इ॒न्द्र॒ । या॒हि॒ । हरि॑ऽभिः । उप॑ । कण्व॑स्य । सु॒ऽस्तु॒तिम् । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥आ । इन्द्र । याहि । हरिभिः । उप । कण्वस्य । सुस्तुतिम् । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवावसो ॥ā | indra | yāhi | hari-bhiḥ | upa | kaṇvasya | su-stutim | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso