Sukta 7.56
अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः । ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः ॥
अत्या॑सो॒ न ये म॒रुत॒: स्वञ्चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्या॑: । ते ह॑र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒ळिन॑: पयो॒धाः ॥
atyā́so na ye marútaḥ sváñco yakṣá-dṛśo na śubháyanta máryāḥ | te harmyéṣṭhāḥ śíśavo na śubhrā́ vatsā́so na prákrīḷinaḥ payodhā́ḥ ||
Like swift racers, the Maruts who move in their own right shine out like wondrous visions, young heroes making the being beautiful. Bright as children at home, like playful calves rich in milk, they pour the nourishing force within us.
अत्या॑सः । न । ये । म॒रुतः॑ । सु॒ऽअञ्चः॑ । य॒क्ष॒ऽदृशः॑ । न । शु॒भय॑न्त । मर्याः॑ । ते । ह॒र्म्ये॒ऽस्थाः । शिश॑वः । न । शु॒भ्राः । व॒त्सासः॑ । न । प्र॒ऽकी॒ळिनः॑ । प॒यः॒ऽधाः ॥अत्यासः । न । ये । मरुतः । सुअञ्चः । यक्षदृशः । न । शुभयन्त । मर्याः । ते । हर्म्येस्थाः । शिशवः । न । शुभ्राः । वत्सासः । न । प्रकीळिनः । पयःधाः ॥atyāsaḥ | na | ye | marutaḥ | su-añcaḥ | yakṣa-dṛśaḥ | na | śubhayanta | mayārḥ | te | harmye--sthāḥ | śiśavaḥ | na | śubhrāḥ | vatsāsaḥ | na | pra-kīḷinaḥ | payaḥ-dhāḥ