Sukta 7.30
वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः । यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥
वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः । यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
vocémed índraṃ maghávānam enaṃ mahó rāyó rā́dhaso yád dádannaḥ | yó árcato bráhma-kṛtim áviṣṭho yūyáṃ pāta svastí-bhiḥ sádā naḥ ||
Let us indeed speak of this Indra, the bountiful, because he gives us the great riches of fullness and the abundance of delight. He who is the most helpful to the one who chants, shaping the brahman—may you protect us always with states of well-being.
वो॒चेम॑ । इत् । इन्द्र॑म् । म॒घऽवा॑नम् । ए॒न॒म् । म॒हः । र॒यः । राध॑सः । यत् । दद॑त् । नः॒ । यः । अर्च॑तः । ब्रह्म॑ऽकृतिम् । अवि॑ष्ठः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥वोचेम । इत् । इन्द्रम् । मघवानम् । एनम् । महः । रयः । राधसः । यत् । ददत् । नः । यः । अर्चतः । ब्रह्मकृतिम् । अविष्ठः । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥vocema | it | indram | magha-vānam | enam | mahaḥ | rayaḥ | rādhasaḥ | yat | dadat | naḥ | yaḥ | arcataḥ | brahma-kṛtim | aviṣṭhaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ