Sukta 7.2
जुषस्व नः समिधमग्ने अद्य शोचा बृहद्यजतं धूममृण्वन् । उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस्ततनः सूर्यस्य ॥
जु॒षस्व॑ नः स॒मिध॑मग्ने अ॒द्य शोचा॑ बृ॒हद्य॑ज॒तं धू॒ममृ॒ण्वन् । उप॑ स्पृश दि॒व्यं सानु॒ स्तूपै॒: सं र॒श्मिभि॑स्ततन॒: सूर्य॑स्य ॥
juṣásva naḥ samídham agne adyá śócā bṛhád yájatam dhūmám ṛṇván | úpa spṛśa divyáṃ sā́nu stū́paiḥ sáṃ raśmíbhis tatanaḥ sū́ryasya ||
Accept our kindling, O Agni, today; blaze vast and worthy of worship, raising your smoke. Touch the luminous summit with your tongues of flame; spread yourself out in harmony with the rays of the Sun.
जु॒षस्व॑ । नः॒ । स॒म्ऽइध॑म् । अ॒ग्ने॒ । अ॒द्य । शोच॑ । बृ॒हत् । य॒ज॒तम् । धू॒मम् । ऋ॒ण्वन् । उप॑ । स्पृ॒श॒ । दि॒व्यम् । सानु॑ । स्तूपैः॑ । सम् । र॒श्मिऽभिः॑ । त॒त॒नः॒ । सूर्य॑स्य ॥जुषस्व । नः । सम्इधम् । अग्ने । अद्य । शोच । बृहत् । यजतम् । धूमम् । ऋण्वन् । उप । स्पृश । दिव्यम् । सानु । स्तूपैः । सम् । रश्मिभिः । ततनः । सूर्यस्य ॥juṣasva | naḥ | sam-idham | agne | adya | śoca | bṛhat | yajatam | dhūmam | ṛṇvan | upa | spṛśa | divyam | sānu | stūpaiḥ | sam | raśmi-bhiḥ | tatanaḥ | sūryasya