Sukta 7.15
सेमां वेतु वषट्कृतिमग्निर्जुषत नो गिरः । यजिष्ठो हव्यवाहनः ॥
सेमां वे॑तु॒ वष॑ट्कृतिम॒ग्निर्जु॑षत नो॒ गिर॑: । यजि॑ष्ठो हव्य॒वाह॑नः ॥
sá imā́ṃ vetu vaṣaṭ-kṛtím agnír juṣata no gíraḥ | yájiṣṭho havya-vā́hanaḥ ||
May Agni carry forward this sealing cry of offering; may the most worshipful, the bearer of the oblation, take delight in our words.
सः । इ॒माम् । वे॒तु॒ । वष॑ट्ऽकृतिम् । अ॒ग्निः । जु॒ष॒त॒ । नः॒ । गिरः॑ । यजि॑ष्ठः । ह॒व्य॒ऽवाह॑नः ॥सः । इमाम् । वेतु । वषट्कृतिम् । अग्निः । जुषत । नः । गिरः । यजिष्ठः । हव्यवाहनः ॥saḥ | imām | vetu | vaṣaṭ-kṛtim | agniḥ | juṣata | naḥ | giraḥ | yajiṣṭhaḥ | havya-vāhanaḥ