Sukta 7.100
नू मर्तो दयते सनिष्यन्यो विष्णव उरुगायाय दाशत् । प्र यः सत्राचा मनसा यजात एतावन्तं नर्यमाविवासात् ॥
नू मर्तो॑ दयते सनि॒ष्यन्यो विष्ण॑व उरुगा॒याय॒ दाश॑त् । प्र यः स॒त्राचा॒ मन॑सा॒ यजा॑त ए॒ताव॑न्तं॒ नर्य॑मा॒विवा॑सात् ॥
nū́ márto dayate saniṣyán yó víṣṇava urugāyā́ya dā́śat | prá yáḥ satrā́cā mánasā yájāta etā́vantaṃ náryam āvivāsāt ||
Now the mortal who seeks to win gives to Vishnu the wide-to-be-sung; he presses forward—constant in mind—and worships. He draws near and serves that heroic Power in its full measure, so that the Vast may uphold his ascent.
नु । मर्तः॑ । द॒य॒ते॒ । स॒नि॒ष्यन् । यः । विष्ण॑वे । उ॒रु॒ऽगा॒याय॑ । दाश॑त् । प्र । यः । स॒त्राचा॑ । मन॑सा । यजा॑ते । ए॒ताव॑न्तम् । नर्य॑म् । आ॒ऽविवा॑सात् ॥नु । मर्तः । दयते । सनिष्यन् । यः । विष्णवे । उरुगायाय । दाशत् । प्र । यः । सत्राचा । मनसा । यजाते । एतावन्तम् । नर्यम् । आविवासात् ॥nu | martaḥ | dayate | saniṣyan | yaḥ | viṣṇave | uru-gāyāya | dāśat | pra | yaḥ | satrācā | manasā | yajāte | etāvantam | naryam | āvivāsāt