Sukta 6.59
य इन्द्राग्नी सुतेषु वां स्तवत्तेष्वृतावृधा । जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन ॥
य इ॑न्द्राग्नी सु॒तेषु॑ वां॒ स्तव॒त्तेष्वृ॑तावृधा । जो॒ष॒वा॒कं वद॑तः पज्रहोषिणा॒ न दे॑वा भ॒सथ॑श्च॒न ॥
ya índrāgnī sutéṣu vāṃ stávát téṣv ṛtā-vṛdhā́ | joṣa-vā́kaṃ vádataḥ pajra-hoṣiṇā ná devā bhasáthaś cana ||
Whoever, O Indra and Agni, praises you among the pressed Soma-offerings—O increasers of the Truth—uttering a word that wins your consent, with strong-voiced power: you, O gods, do not fail him in any way.
यः । इ॒न्द्रा॒ग्नी॒ इति॑ । सु॒तेषु॑ । वा॒म् । स्तव॑त् । तेषु॑ । ऋ॒त॒ऽवृ॒धा॒ । जो॒ष॒ऽवा॒कम् । वद॑तः । प॒ज्र॒ऽहो॒षि॒णा॒ । न । दे॒वा॒ । भ॒सथः॑ । च॒न ॥यः । इन्द्राग्नी इति । सुतेषु । वाम् । स्तवत् । तेषु । ऋतवृधा । जोषवाकम् । वदतः । पज्रहोषिणा । न । देवा । भसथः । चन ॥yaḥ | indrāgnī iti | suteṣu | vām | stavat | teṣu | ṛta-vṛdhā | joṣa-vākam | vadataḥ | pajra-hoṣi ṇā | na | devā | bhasathaḥ | cana