Sukta 6.2
त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे । त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥
त्वं हि क्षैत॑व॒द्यशोऽग्ने॑ मि॒त्रो न पत्य॑से । त्वं वि॑चर्षणे॒ श्रवो॒ वसो॑ पु॒ष्टिं न पु॑ष्यसि ॥
tváṃ hí kṣáitavád yáśo 'gne mitró ná pátyase | tváṃ vícarṣaṇe śrávo vaso púṣṭiṃ ná púṣyasi ||
For you, O Agni, are a lord like a friend over a settled domain of splendour; you govern the glory. You, O wide-seeing one, increase the luminous hearing and the fullness of substance, as one fosters nourishment itself.
त्वम् । हि । क्षैत॑ऽवत् । यशः॑ । अग्ने॑ । मि॒त्रः । न । पत्य॑से । त्वम् । वि॒ऽच॒र्ष॒णे॒ । श्रवः॑ । वसो॒ इति॑ । पु॒ष्टिम् । न । पु॒ष्य॒सि॒ ॥त्वम् । हि । क्षैतवत् । यशः । अग्ने । मित्रः । न । पत्यसे । त्वम् । विचर्षणे । श्रवः । वसो इति । पुष्टिम् । न । पुष्यसि ॥tvam | hi | kṣaita-vat | yaśaḥ | agne | mitraḥ | na | patyase | tvam | vi-carṣaṇe | śravaḥ | vaso iti | puṣṭim | na | puṣyasi