Sukta 6.18
अनु द्यावापृथिवी तत्त ओजोऽमर्त्या जिहत इन्द्र देवाः । कृष्वा कृत्नो अकृतं यत्ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः ॥
अनु॒ द्यावा॑पृथि॒वी तत्त॒ ओजोऽम॑र्त्या जिहत इन्द्र दे॒वाः । कृ॒ष्वा कृ॑त्नो॒ अकृ॑तं॒ यत्ते॒ अस्त्यु॒क्थं नवी॑यो जनयस्व य॒ज्ञैः ॥
ánu dyāvāpṛthivī́ tát te ójo 'martyā jihata indra devā́ḥ | kṛṣvā́ kṛtnó ákṛtaṃ yát te ásty uktháṃ navī́yo janayasva yajñáiḥ ||
Following that, Heaven-and-Earth yield to your might, O Indra; the immortal powers give way. Make complete what is not yet made complete that is in you; bring forth by the sacrifices a newer word of affirmation.
अनु॑ । द्यावा॑पृथि॒वी इति॑ । तत् । ते॒ । ओजः॑ । अम॑र्त्याः । जि॒ह॒ते॒ । इ॒न्द्र॒ । दे॒वाः । कृ॒ष्व । कृ॒त्नो॒ इति॑ । अकृ॑तम् । यत् । ते॒ । अस्ति॑ । उ॒क्थम् । नवी॑यः । ज॒न॒य॒स्व॒ । य॒ज्ञैः ॥अनु । द्यावापृथिवी इति । तत् । ते । ओजः । अमर्त्याः । जिहते । इन्द्र । देवाः । कृष्व । कृत्नो इति । अकृतम् । यत् । ते । अस्ति । उक्थम् । नवीयः । जनयस्व । यज्ञैः ॥anu | dyāvāpṛthivī iti | tat | te | ojaḥ | amartyāḥ | jihate | indra | devāḥ | kṛṣva | kṛtno iti | akṛtam | yat | te | asti | uktham | navīyaḥ | janayasva | yajñaiḥ