Sukta 6.15
वयमु त्वा गृहपते जनानामग्ने अकर्म समिधा बृहन्तम् । अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सं शिशाधि ॥
व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हन्त॑म् । अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ॥
vayám u tvā gṛha-pate janānām agne ákarma samídhā bṛhántam | asthū́ri no gārhapatyā́ni santu tigména nas téjasā sáṃ śiśādhi ||
We have made thee grow great with the kindling, O Agni, lord of the house of men. Let our household fires be firmly set; with thy keen blaze of force, sharpen and set our energy in right intensity.
व॒यम् । ऊँ॒ इति॑ । त्वा॒ । गृ॒ह॒ऽप॒ते॒ । ज॒ना॒ना॒म् । अग्ने॑ । अक॑र्म । स॒म्ऽइधा॑ । बृ॒हन्त॑म् । अ॒स्थू॒रि । नः॒ । गार्ह॑पत्यानि । स॒न्तु॒ । ति॒ग्मेन॑ । नः॒ । तेज॑सा । सम् । सि॒शा॒धि॒ ॥वयम् । ऊँ इति । त्वा । गृहपते । जनानाम् । अग्ने । अकर्म । सम्इधा । बृहन्तम् । अस्थूरि । नः । गार्हपत्यानि । सन्तु । तिग्मेन । नः । तेजसा । सम् । सिशाधि ॥vayam | oṃ iti | tvā | gṛha-pate | janānām | agne | akarma | sam-idhā | bṛhantam | asthūri | naḥ | gārhapatyāni | santu | tigmena | naḥ | tejasā | sam | siśādhi