Sukta 5.86
एवेन्द्राग्निभ्यामहावि हव्यं शूष्यं घृतं न पूतमद्रिभिः । ता सूरिषु श्रवो बृहद्रयिं गृणत्सु दिधृतमिषं गृणत्सु दिधृतम् ॥
ए॒वेन्द्रा॒ग्निभ्या॒महा॑वि ह॒व्यं शू॒ष्यं॑ घृ॒तं न पू॒तमद्रि॑भिः । ता सू॒रिषु॒ श्रवो॑ बृ॒हद्र॒यिं गृ॒णत्सु॑ दिधृत॒मिषं॑ गृ॒णत्सु॑ दिधृतम् ॥
evéndrāgní-bhyām áhāvi havyaṃ śū́ṣyaṃ ghṛtáṃ na pūtám ádri-bhiḥ | tā sūríṣu śrávo bṛhád rayíṃ gṛṇát-su didhṛtám íṣaṃ gṛṇát-su didhṛtám ||
Thus for Indra and Agni the offering has been poured out—like clarified sweetness purified by the pressing-stones, a force that ripens. May those two establish among the illumined leaders a vast fame and a plenitude of being; may they uphold the impulsion of nourishment in those who chant, uphold it in those who chant.
ए॒व । इ॒न्द्रा॒ग्निऽभ्या॑म् । अहा॑वि । ह॒व्यम् । सू॒ष्य॑म् । घ्ऋ॒तम् । न । पू॒तम् । अद्रि॑ऽभिः । ता । सू॒रिषु॑ । श्रवः॑ । बृ॒हत् । र॒यिम् । गृ॒णत्ऽसु॑ । दि॒धृ॒त॒म् । इष॑म् । गृ॒णत्ऽसु॑ । दि॒धृ॒त॒म् ॥एव । इन्द्राग्निभ्याम् । अहावि । हव्यम् । सूष्यम् । घ्ऋतम् । न । पूतम् । अद्रिभिः । ता । सूरिषु । श्रवः । बृहत् । रयिम् । गृणत्सु । दिधृतम् । इषम् । गृणत्सु । दिधृतम् ॥eva | indrāgni-bhyām | ahāvi | havyam | sūṣyam | ghṛtam | na | pūtam | adri-bhiḥ | tā | sūriṣu | śravaḥ | bṛhat | rayim | gṛṇat-su | didhṛtam | iṣam | gṛṇat-su | didhṛtam