Sukta 5.84
स्तोमासस्त्वा विचारिणि प्रति ष्टोभन्त्यक्तुभिः । प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि ॥
स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ ष्टोभन्त्य॒क्तुभि॑: । प्र या वाजं॒ न हेष॑न्तं पे॒रुमस्य॑स्यर्जुनि ॥
stómāsas tvā vicāriṇi práti stobhanty aktúbhiḥ | prá yā́ vā́jaṃ ná héṣantaṃ pérum asyasy arjuni ||
The chants resound to you, O wanderer, with their night-works; you who cast forward the plenitude of force, neighing like a charger—O Arjunī, swift-bright power.
स्तोमा॑सः । त्वा॒ । वि॒ऽचा॒रि॒णि॒ । प्रति॑ । स्तो॒भ॒न्ति॒ । अ॒क्तुऽभिः॑ । प्र । या । वाज॑म् । न । हेष॑न्तम् । पे॒रुम् । अस्य॑सि । अ॒र्जु॒नि॒ ॥स्तोमासः । त्वा । विचारिणि । प्रति । स्तोभन्ति । अक्तुभिः । प्र । या । वाजम् । न । हेषन्तम् । पेरुम् । अस्यसि । अर्जुनि ॥stomāsaḥ | tvā | vi-cāriṇi | prati | stobhanti | aktu-bhiḥ | pra | yā | vājam | na | heṣantam | perum | asyasi | arjuni