Sukta 5.6
एवाँ अग्निमजुर्यमुर्गीर्भिर्यज्ञेभिरानुषक् । दधदस्मे सुवीर्यमुत त्यदाश्वश्व्यमिषं स्तोतृभ्य आ भर ॥
ए॒वाँ अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् । दध॑द॒स्मे सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
evā́ṃ agním ajuryamur gī́rbhir yajñébhir ānuṣák | dádhad asmè su-vī́ryam utá tyád āśú-aśvyam íṣaṃ stotṛ́bhya ā́ bhara ||
Thus with our songs and sacrifices continually we establish Agni, the unwearied; may he place in us a good hero-strength, and also that swift horse-force—bring the impulsion of increase to the singers.
ए॒व । अ॒ग्निम् । अ॒जु॒र्य॒मुः॒ । गीः॒ऽभिः । य॒ज्ञेभिः॑ । आ॒नु॒षक् । दध॑त् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् । उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥एव । अग्निम् । अजुर्यमुः । गीःभिः । यज्ञेभिः । आनुषक् । दधत् । अस्मे इति । सुवीर्यम् । उत । त्यत् । आशुअश्व्यम् । इषम् । स्तोतृभ्यः । आ । भर ॥eva | agnim | ajuryamuḥ | gīḥ-bhiḥ | yajñebhiḥ | ānuṣak | dadhat | asme iti | su-vīryam | uta | tyat | āśu-aśvyam | iṣam | stotṛ-bhyaḥ | ā | bhara