Sukta 5.53
स्तुहि भोजान्त्स्तुवतो अस्य यामनि रणन्गावो न यवसे । यतः पूर्वाँ इव सखीँरनु ह्वय गिरा गृणीहि कामिनः ॥
स्तु॒हि भो॒जान्त्स्तु॑व॒तो अ॑स्य॒ याम॑नि॒ रण॒न्गावो॒ न यव॑से । य॒तः पूर्वाँ॑ इव॒ सखीँ॒रनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिन॑: ॥
stúhi bhojā́nt stuvató asyá yā́mani raṇán gā́vo ná yávase | yatáḥ pū́rvān-iva sákhīn ánu hvaya girā́ gṛṇīhi kā́minaḥ ||
Praise the bounteous ones in this advancing march of the singer, as cattle lowing for pasture. From where you are—call them like former friends; with your word, utter them forth, O desiring one, and bring the Marut powers near.
स्तु॒हि । भो॒जान् । स्तु॒व॒तः । अ॒स्य॒ । याम॑नि । रण॑म् । गावः॑ । न । यव॑से । य॒तः । पूर्वा॑न्ऽइव । सखी॑न् । अनु॑ । ह्व॒य॒ । गि॒रा । गृ॒णी॒हि॒ । का॒मिनः॑ ॥स्तुहि । भोजान् । स्तुवतः । अस्य । यामनि । रणम् । गावः । न । यवसे । यतः । पूर्वान्इव । सखीन् । अनु । ह्वय । गिरा । गृणीहि । कामिनः ॥stuhi | bhojān | stuvataḥ | asya | yāmani | raṇam | gāvaḥ | na | yavase | yataḥ | pūrvān-iva | sakhīn | anu | hvaya | girā | gṛṇīhi | kāminaḥ