Sukta 3.30
आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः । दिवक्षा असि वृषभ सत्यशुष्मोऽस्मभ्यं सु मघवन्बोधि गोदाः ॥
आ नो॑ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्यं॑ स॒नयो॑ यन्तु॒ वाजा॑: । दि॒वक्षा॑ असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्यं॒ सु म॑घवन्बोधि गो॒दाः ॥
ā nó gotrā́ dadṛrhi gopate gā́ḥ sám asmábhyaṃ sanáyo yantu vā́jāḥ | divákṣā asi vṛṣabha satyáśuṣmo ’smábhyaṃ sú maghavan bodhi godā́ḥ ||
Break open for us the cow-stalls, O Lord of the herds; let the gains of plenitude come together to us. Thou art the heaven-impelling Bull with true force; awaken for us, O bounteous one, as the giver of rays of knowledge.
आ । नः॒ । गो॒त्रा । द॒र्दृ॒हि॒ । गो॒ऽप॒ते॒ । गाः । सम् । अ॒स्मभ्य॑म् । स॒नयः॑ । य॒न्तु॒ । वाजाः॑ । दि॒वक्षाः॑ । अ॒सि॒ । वृ॒ष॒भ॒ । स॒त्यऽशु॑ष्मः । अ॒स्मभ्य॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒ऽदाः ॥आ । नः । गोत्रा । दर्दृहि । गोपते । गाः । सम् । अस्मभ्यम् । सनयः । यन्तु । वाजाः । दिवक्षाः । असि । वृषभ । सत्यशुष्मः । अस्मभ्यम् । सु । मघवन् । बोधि । गोदाः ॥ā | naḥ | gotrā | dadṛrhi | go--pate | gāḥ | sam | asmabhyam | sanayaḥ | yantu | vājāḥ | divakṣāḥ | asi | vṛṣabha | satya-śuṣmaḥ | asmabhyam | su | magha-van | bodhi | go--dāḥ