Sukta 3.2
वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि । द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति ॥
वै॒श्वा॒न॒राय॑ धि॒षणा॑मृता॒वृधे॑ घृ॒तं न पू॒तम॒ग्नये॑ जनामसि । द्वि॒ता होता॑रं॒ मनु॑षश्च वा॒घतो॑ धि॒या रथं॒ न कुलि॑श॒: समृ॑ण्वति ॥
vaiśvānará̄ya dhiṣáṇām ṛtā-vṛ́dhe ghṛtáṁ na pūtám agnáye janāmasi | dvitā́ hótāraṁ mánuṣaś ca vā́ghato dhiyā́ ráthaṁ na kúliśaḥ sám ṛṇvati ||
For Vaiśvānara, for Agni who increases the inspired discernment in the Truth, we beget a clarified offering like purified ghee. The human worshipper fashions the Hotar anew, as with thought one forges a chariot like a smith with his hammer.
वै॒श्वा॒न॒राय॑ । धि॒षणा॑म् । ऋ॒त॒ऽवृधे॑ । घृ॒तम् । न । पू॒तम् । अ॒ग्नये॑ । ज॒ना॒म॒सि॒ । द्वि॒ता । होता॑रम् । मनु॑षः । च॒ । वा॒घतः॑ । धि॒या । रथ॑म् । न । कुलि॑शः । सम् । ऋ॒ण्व॒ति॒ ॥वैश्वानराय । धिषणाम् । ऋतवृधे । घृतम् । न । पूतम् । अग्नये । जनामसि । द्विता । होतारम् । मनुषः । च । वाघतः । धिया । रथम् । न । कुलिशः । सम् । ऋण्वति ॥vaiśvānarāya | dhiṣaṇām | ṛta-vṛdhe | ghṛtam | na | pūtam | agnaye | janāmasi | dvitā | hotāram | manuṣaḥ | ca | vāghataḥ | dhiyā | ratham | na | kuliśaḥ | sam | ṛṇvati