Sukta 10.94
तदिद्वदन्त्यद्रयो विमोचने यामन्नञ्जस्पा इव घेदुपब्दिभिः । वपन्तो बीजमिव धान्याकृतः पृञ्चन्ति सोमं न मिनन्ति बप्सतः ॥
तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने॒ याम॑न्नञ्ज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभि॑: । वप॑न्तो॒ बीज॑मिव धान्या॒कृत॑: पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ॥
tád íd vadanty ádrayo vi-mócane yā́mann añjáspā iva ghéd upabdíbhiḥ | vápanto bī́jam iva dhānyā́kṛtaḥ pṛ́ñcanti sómaṃ ná mínanti bápsataḥ ||
This indeed the stones proclaim at the moment of release, as if swift-pressers with their answering strokes. Like sowers casting seed, like makers of ripened grain, they sprinkle the Soma; they do not diminish it as they work and strive.
तत् । इत् । व॒द॒न्ति॒ । अद्र॑यः । वि॒ऽमोच॑ने । याम॑न् । अ॒ञ्जः॒पाःऽइ॑व । घ॒ । इत् । उ॒प॒ब्दिऽभिः॑ । वप॑न्तः । बीज॑म्ऽइव । धा॒न्य॒ऽकृतः॑ । पृ॒ञ्चन्ति॑ । सोम॑म् । न । मि॒न॒न्ति॒ । बप्स॑तः ॥तत् । इत् । वदन्ति । अद्रयः । विमोचने । यामन् । अञ्जःपाःइव । घ । इत् । उपब्दिभिः । वपन्तः । बीजम्इव । धान्यकृतः । पृञ्चन्ति । सोमम् । न । मिनन्ति । बप्सतः ॥tat | it | vadanti | adrayaḥ | vi-mocane | yāman | añjaḥpāḥ-iva | gha | it | upabdi--bhiḥ | vapantaḥ | bījam-iva | dhānya-kṛtaḥ | pṛñcanti | somam | na | minanti | bapsataḥ