Sukta 10.8
भूरीदिन्द्र उदिनक्षन्तमोजोऽवाभिनत्सत्पतिर्मन्यमानम् । त्वाष्ट्रस्य चिद्विश्वरूपस्य गोनामाचक्राणस्त्रीणि शीर्षा परा वर्क् ॥
भूरीदिन्द्र॑ उ॒दिन॑क्षन्त॒मोजोऽवा॑भिन॒त्सत्प॑ति॒र्मन्य॑मानम् । त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू॑पस्य॒ गोना॑माचक्रा॒णस्त्रीणि॑ शी॒र्षा परा॑ वर्क् ॥
bhūrīd índra ud-ínakṣantam ójo 'vābhinat sát-patir mányamānam | tvāṣṭrásya cid viśvá-rūpasya gónām ācakrāṇás trī́ṇi śī́rṣā párā vark ||
Indra, rich in force, struck down the swelling might of the arrogant lord who deemed himself. Even of Tvaṣṭṛ’s Viśvarūpa, while he was fashioning the cows (the rays), he hewed away the three heads and cast them afar.
भूरि॑ । इत् । इन्द्रः॑ । उ॒त्ऽइन॑क्षन्तम् । ओजः॑ । अव॑ । अ॒भि॒न॒त् । सत्ऽप॑तिः । मन्य॑मानम् । त्वा॒ष्ट्रस्य॑ । चि॒त् । वि॒श्वऽरू॑पस्य । गोना॑म् । आ॒ऽच॒क्रा॒णः । त्रीणि॑ । शी॒र्षा । परा॑ । वर्क् ॥भूरि । इत् । इन्द्रः । उत्इनक्षन्तम् । ओजः । अव । अभिनत् । सत्पतिः । मन्यमानम् । त्वाष्ट्रस्य । चित् । विश्वरूपस्य । गोनाम् । आचक्राणः । त्रीणि । शीर्षा । परा । वर्क् ॥bhūri | it | indraḥ | ut-inakṣantam | ojaḥ | ava | abhinat | sat-patiḥ | manyamānam | tvāṣṭrasya | cit | viśva-rūpasya | gonām | ācakrāṇaḥ | trīṇi | śīrṣā | parā | varka