Sukta 10.34
प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः । सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान् ॥
प्रा॒वे॒पा मा॑ बृह॒तो मा॑दयन्ति प्रवाते॒जा इरि॑णे॒ वर्वृ॑तानाः । सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ॥
prāvepā́ mā bṛható mādayanti pravāte-jā́ íriṇe várvṛtānāḥ | sómasyeva mauja-vátasya bhakṣó vibhī́dako jā́gṛvir máhyam acchān ||
The great tremors intoxicate me—born of restless winds, rolling on the barren ground. Like the draught of Soma from Mujavat, the dice has come to me, wakeful and fear-bringing, to seize my being.
प्रा॒वे॒पाः । मा॒ । बृ॒ह॒तः । मा॒द॒य॒न्ति॒ । प्र॒वा॒ते॒ऽजाः । इरि॑णे । वर्वृ॑तानाः । सोम॑स्यऽइव । मौ॒ज॒ऽव॒तस्य॑ । भ॒क्षः । वि॒ऽभीद॑कः । जागृ॑विः । मह्य॑म् । अ॒च्छा॒न् ॥प्रावेपाः । मा । बृहतः । मादयन्ति । प्रवातेजाः । इरिणे । वर्वृतानाः । सोमस्यइव । मौजवतस्य । भक्षः । विभीदकः । जागृविः । मह्यम् । अच्छान् ॥prāvepāḥ | mā | bṛhataḥ | mādayanti | pravāte--jāḥ | iriṇe | varvṛtānāḥ | somasya-iva | mauja-vatasya | bhakṣaḥ | vi-bhīdakaḥ | jāgṛviḥ | mahyam | acchān