Sukta 10.33
प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणमन्तरेण । विश्वे देवासो अध मामरक्षन्दुःशासुरागादिति घोष आसीत् ॥
प्र मा॑ युयुज्रे प्र॒युजो॒ जना॑नां॒ वहा॑मि स्म पू॒षण॒मन्त॑रेण । विश्वे॑ दे॒वासो॒ अध॒ माम॑रक्षन्दु॒:शासु॒रागा॒दिति॒ घोष॑ आसीत् ॥
prá mā yuyujre práyujó janā́nāṃ váhāmi sma pū́ṣaṇam ántareṇa | víśve devā́so ádha mām arakṣan duḥśā́súr ā́gād íti ghóṣa āsīt ||
They harnessed me forward, the leaders among men; I was bearing Pūṣan within. Then all the gods protected me: ‘Duḥśāsu has come!’—such was the cry.
प्र । मा॒ । यु॒यु॒ज्रे॒ । प्र॒ऽयुजः॑ । जना॑नाम् । वहा॑मि । स्म॒ । पू॒षण॑म् । अन्त॑रेण । विश्वे॑ । दे॒वासः॑ । अध॑ । माम् । अ॒र॒क्ष॒न् । दुः॒ऽशासुः॑ । आ । अ॒गा॒त् । इति॑ । घोषः॑ । आ॒सी॒त् ॥प्र । मा । युयुज्रे । प्रयुजः । जनानाम् । वहामि । स्म । पूषणम् । अन्तरेण । विश्वे । देवासः । अध । माम् । अरक्षन् । दुःशासुः । आ । अगात् । इति । घोषः । आसीत् ॥pra | mā | yuyujre | pra-yujaḥ | janānām | vahāmi | sma | pūṣaṇam | antareṇa | vi śve | devāsaḥ | adha | mām | arakṣan | duḥ-śāsuḥ | ā | agāt | iti | ghoṣaḥ | āsīt