Sukta 10.22
अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः । त्वं तस्यामित्रहन्वधर्दासस्य दम्भय ॥
अ॒क॒र्मा दस्यु॑र॒भि नो॑ अम॒न्तुर॒न्यव्र॑तो॒ अमा॑नुषः । त्वं तस्या॑मित्रह॒न्वध॑र्दा॒सस्य॑ दम्भय ॥
akarmā́ dásyur abhí no amántur anyá-vrato amā́nuṣaḥ | tváṃ tásyāmitra-han vádhar dāsásya dambhaya ||
A doer of no true works, the Dasyu presses upon us—mindless, following another law, inhuman. You, O slayer of foes, crush the weapon-force of that Dāsa; break his power of deception.
अ॒क॒र्मा । दसुः॑ । अ॒भि । नः॒ । अ॒म॒न्तुः । अ॒न्यऽव्र॑तः । अमा॑नुषः । त्वम् । तस्य॑ । अ॒मि॒त्र॒ऽह॒न् । वधः॑ । दा॒सस्य॑ । द॒म्भ॒य॒ ॥अकर्मा । दसुः । अभि । नः । अमन्तुः । अन्यव्रतः । अमानुषः । त्वम् । तस्य । अमित्रहन् । वधः । दासस्य । दम्भय ॥akarmā | dasuḥ | abhi | naḥ | amantuḥ | anya-vrataḥ | amānuṣaḥ | tvam | tasya | amitra-han | vadhaḥ | dāsasya | dambhaya