Sukta 10.21
अग्निर्जातो अथर्वणा विदद्विश्वानि काव्या । भुवद्दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे ॥
अ॒ग्निर्जा॒तो अथ॑र्वणा वि॒दद्विश्वा॑नि॒ काव्या॑ । भुव॑द्दू॒तो वि॒वस्व॑तो॒ वि वो॒ मदे॑ प्रि॒यो य॒मस्य॒ काम्यो॒ विव॑क्षसे ॥
agnír jā́to átharvaṇā vidád víśvāni kā́vyā | bhúvad dūtó vivásvato ví vo made priyó yámasya kā́myo vívakṣase ||
Agni, born by Atharvan, has discovered all the inspired knowings. He became the messenger of Vivasvat; in our rapture you seek to manifest as the beloved and desirable power of Yama—one who leads the soul by the true path.
अ॒ग्निः । जा॒तः । अथ॑र्वणा । वि॒दत् । विश्वा॑नि । काव्या॑ । भुव॑त् । दू॒तः । वि॒वस्व॑तः । वि । वः॒ । मदे॑ । प्रि॒यः । य॒मस्य॑ । काम्यः॑ । विव॑क्षसे ॥अग्निः । जातः । अथर्वणा । विदत् । विश्वानि । काव्या । भुवत् । दूतः । विवस्वतः । वि । वः । मदे । प्रियः । यमस्य । काम्यः । विवक्षसे ॥agniḥ | jātaḥ | atharvaṇā | vidat | viśvāni | kāvyā | bhuvat | dūtaḥ | vivasvataḥ | v i | vaḥ | made | priyaḥ | yamasya | kāmyaḥ | vivakṣase