Sukta 10.2
पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँॠतुपते यजेह । ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः ॥
पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँॠ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ॑णाम॒स्याय॑जिष्ठः ॥
piprī́hi devā́ṁ uśató yaviṣṭha vidvā́ṁ ṛtū́ṁ ṛtu-pate yajehá | yé daivyā́ ṛ́tvijas tébhir agne tváṁ hotṝ́ṇām asyā́yajiṣṭhaḥ ||
Fill and nourish the gods who desire, O youngest; knowing the seasons, O lord of the right times, sacrifice here. With those divine officiants, O Agni, you are the most apt of the Hotṛs for this offering.
पि॒प्री॒हि । दे॒वान् । उ॒श॒तः । य॒वि॒ष्ठ॒ । वि॒द्वान् । ऋ॒तून् । ऋ॒तु॒ऽप॒ते॒ । य॒ज॒ । इ॒ह । ये । दैव्याः॑ । ऋ॒त्विजः॑ । तेभिः॑ । अ॒ग्ने॒ । त्वम् । होतॄ॑णाम् । अ॒सि॒ । आऽय॑जिष्ठः ॥पिप्रीहि । देवान् । उशतः । यविष्ठ । विद्वान् । ऋतून् । ऋतुपते । यज । इह । ये । दैव्याः । ऋत्विजः । तेभिः । अग्ने । त्वम् । होतॄणाम् । असि । आयजिष्ठः ॥piprīhi | devān | uśataḥ | yaviṣṭha | vidvān | ṛtūn | ṛtu-pate | yaja | iha | ye | daivyāḥ | ṛtvijaḥ | tebhiḥ | agne | tvam | hotṛṝṇām | asi | āyajiṣṭhaḥ