Sukta 10.151
श्रद्धां प्रातर्हवामहे श्रद्धां मध्यंदिनं परि । श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद्धापयेह नः ॥
श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ । श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह न॑: ॥
śraddhā́m prā́tar havāmahe śraddhā́m madhyáṃdinaṃ pári | śraddhā́m sū́ryasya nimrúci śraddhe śrát dhāpayeha naḥ ||
We call Faith at the dawn; we encompass the mid-day with Faith. We call Faith at the Sun’s setting: O Faith, establish here in us the heart’s assent to the Truth.
श्र॒द्धाम् । प्रा॒तः । ह॒वा॒म॒हे॒ । श्र॒द्धाम् । म॒ध्य॑न्दि॑नम् । परि॑ । श्र॒द्धाम् । सूर्य॑स्य । नि॒ऽम्रुचि॑ । श्रद्धे॑ । श्रत् । धा॒प॒य॒ । इ॒ह । नः॒ ॥श्रद्धाम् । प्रातः । हवामहे । श्रद्धाम् । मध्यन्दिनम् । परि । श्रद्धाम् । सूर्यस्य । निम्रुचि । श्रद्धे । श्रत् । धापय । इह । नः ॥śraddhām | prātaḥ | havāmahe | śraddhām | madhyandinam | pari | śraddhām | sūryasya | ni-mruci | śraddhe | śrat | dhāpaya | iha | naḥ