Sukta 1.99
जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥
जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेद॑: । स न॑: पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒तात्य॒ग्निः ॥
jātávedase sunavā́ma sómam arātīyató ní dahāti védaḥ | sá naḥ párṣad áti durgā́ṇi víśvā nā́veva síndhuṃ duritā́ty agníḥ ||
To Jātavedas we press out Soma; the Knower burns down the hostile will that wars against us. May Agni carry us beyond all difficult passages, as in a boat across the river, beyond the peril and the wrong path.
ज॒तऽवे॑दसे । सु॒न॒वा॒म॒ । सोम॑म् । अ॒रा॒ति॒ऽय॒तः । नि । द॒हा॒ति॒ । वेदः॑ । सः । नः॒ । प॒र्ष॒त् । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ । ना॒वाऽइ॑व । सिन्धु॑म् । दुः॒ऽइ॒ता । अति॑ । अ॒ग्निः ॥जतवेदसे । सुनवाम । सोमम् । अरातियतः । नि । दहाति । वेदः । सः । नः । पर्षत् । अति । दुःगानि । विश्वा । नावाइव । सिन्धुम् । दुःइता । अति । अग्निः ॥jata-vedase | sunavāma | somam | arāti-yataḥ | ni | dahāti | vedaḥ | saḥ | naḥ | parṣat | ati | duḥ-gāni | viśvā | nāvāiva | sindhum | duḥ-itā | ati | agniḥ