Sukta 1.43
यास्ते प्रजा अमृतस्य परस्मिन्धामन्नृतस्य । मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥
यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑ । मू॒र्धा नाभा॑ सोम वेन आ॒भूष॑न्तीः सोम वेदः ॥
yā́s te prajā́ amṛ́tasya párasmīn dhā́mann ṛtásya | mūrdhā́ nā́bhā soma véna ābhū́ṣantīḥ soma védaḥ ||
Those offspring-powers of yours, O Soma, that dwell in the highest home of immortality, in the station of ṛta—crowned above, rooted in the navel-centre—O Soma, O seer-will, you know them as they adorn and build the being.
याः । ते॒ । प्र॒ऽजाः । अ॒मृत॑स्य । पर॑स्मिन् । धाम॑न् । ऋ॒तस्य॑ । मू॒र्धा । नाभा॑ । सो॒म॒ । वे॒नः॒ । आ॒ऽभूष॑न्तीः । सो॒म॒ । वे॒दः॒ ॥याः । ते । प्रजाः । अमृतस्य । परस्मिन् । धामन् । ऋतस्य । मूर्धा । नाभा । सोम । वेनः । आभूषन्तीः । सोम । वेदः ॥yāḥ | te | pra-jāḥ | amṛtasya | parasmin | dhāman | ṛtasya | mūrdhā | nābhā | soma | venaḥ | ābhūṣantīḥ | soma | vedaḥ