Sukta 1.31
एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा । उत प्र णेष्यभि वस्यो अस्मान्त्सं नः सृज सुमत्या वाजवत्या ॥
ए॒तेना॑ग्ने॒ ब्रह्म॑णा वावृधस्व॒ शक्ती॑ वा॒ यत्ते॑ चकृ॒मा वि॒दा वा॑ । उ॒त प्र णे॑ष्य॒भि वस्यो॑ अ॒स्मान्त्सं न॑: सृज सुम॒त्या वाज॑वत्या ॥
etenāgne brahmaṇā vavṛdhasva śaktī vā yat te cakṛmā vidā vā | uta pra neṣy abhi vasyo asmān saṃ naḥ sṛja su-matyā vāja-vatyā ||
By this word of power, O Agni, grow in your might—by the strength we have fashioned for you, or by the knowledge. And lead us forward toward the better; join us together in a happy-mindedness that is full of plenitude of force.
ए॒तेन॑ । अ॒ग्ने॒ । ब्रह्म॑णा । व॒वृ॒ध॒स्व॒ । शक्ती॑ । वा॒ । यत् । ते॒ । च॒कृ॒म । वि॒दा । वा॒ । उ॒त । प्र । ने॒षि॒ । अ॒भि । वस्यः॑ । अ॒स्मान् । सम् । नः॒ । सृ॒ज॒ । सु॒ऽम॒त्या । वाज॑ऽवत्या ॥एतेन । अग्ने । ब्रह्मणा । ववृधस्व । शक्ती । वा । यत् । ते । चकृम । विदा । वा । उत । प्र । नेषि । अभि । वस्यः । अस्मान् । सम् । नः । सृज । सुमत्या । वाजवत्या ॥etena | agne | brahmaṇā | vavṛdhasva | śaktī | vā | yat | te | cakṛma | vidā | vā | uta | pra | neṣi | abhi | vasyaḥ | asmān | sam | naḥ | sṛja | su-matyā | vāja-vatyā