Sukta 1.30
आ यद्दुवः शतक्रतवा कामं जरितॄणाम् । ऋणोरक्षं न शचीभिः ॥
आ यद्दुव॑: शतक्रत॒वा कामं॑ जरितॄ॒णाम् । ऋ॒णोरक्षं॒ न शची॑भिः ॥
ā́ yád dúvaḥ śatakrato ā́ kā́maṃ jaritṝṇā́m | ṛṇór ákṣaṃ ná śácībhiḥ ||
When thou drawest near the service (devotion), O hundred-powered one, fulfilling the desire of the singers, then by thy effective powers thou releasest the axle—making the inner movement possible.
आ । यत् । दुवः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । आ । काम॑म् । ज॒रि॒तॄ॒णाम् । ऋ॒णोः । अक्ष॑म् । न । शची॑भिः ॥आ । यत् । दुवः । शतक्रतो इति शतक्रतो । आ । कामम् । जरितॄणाम् । ऋणोः । अक्षम् । न । शचीभिः ॥ā | yat | duvaḥ | śatakrato itiśata-krato | ā | kāmam | jaritṝṇām | ṛṇoḥ | akṣam | na | śacībhiḥ