Sukta 1.23
सं माग्ने वर्चसा सृज सं प्रजया समायुषा । विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥
सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा । वि॒द्युर्मे॑ अस्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥
sáṃ māgne várcasā sṛja sáṃ prajáyā sám ā́yuṣā | vidyúr me asya devā́ índro vidyāt sahá ṛ́ṣibhiḥ ||
O Agni, shape me into wholeness with radiant force—into wholeness with the power of becoming, into wholeness with a full span of life. May the gods know this of me; may Indra, together with the seers, affirm it in my being.
सम् । मा॒ । अ॒ग्ने॒ । वर्च॑सा । सृ॒ज॒ । सम् । प्र॒ऽजया॑ । सम् । आयु॑षा । वि॒द्युः । मे॒ । अ॒स्य॒ । दे॒वाः । इन्द्रः॑ । वि॒द्या॒त् । स॒ह । ऋषि॑ऽभिः ॥सम् । मा । अग्ने । वर्चसा । सृज । सम् । प्रजया । सम् । आयुषा । विद्युः । मे । अस्य । देवाः । इन्द्रः । विद्यात् । सह । ऋषिभिः ॥sam | mā | agne | varcasā | sṛja | sam | pra-jayā | sam | āyuṣā | vidyuḥ | me | asya | devāḥ | indraḥ | vidyāt | saha | ṛṣi-bhiḥ