Sukta 1.22
अभि नो देवीरवसा महः शर्मणा नृपत्नीः । अच्छिन्नपत्राः सचन्ताम् ॥
अ॒भि नो॑ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नी॑: । अच्छि॑न्नपत्राः सचन्ताम् ॥
abhí no devī́r avásā máhaḥ śármaṇā nṛpátnīḥ | ácchinnapatrāḥ sacantām ||
May the Goddesses, the Queens of the soul’s lordship, encompass us with their help—by the great peace and shelter; may they, with unbroken leaves of force, cleave to us and accompany our progress.
अ॒भि । नः॒ । दे॒वीः । अव॑सा । म॒हः । शर्म॑णा । नृ॒ऽपत्नीः॑ । अच्छि॑न्नऽपत्राः । स॒च॒न्ता॒म् ॥अभि । नः । देवीः । अवसा । महः । शर्मणा । नृपत्नीः । अच्छिन्नपत्राः । सचन्ताम् ॥abhi | naḥ | devīḥ | avasā | mahaḥ | śarmaṇā | nṛ-patnīḥ | acchinna-patrāḥ | sacantām