Sukta 1.20
अयं देवाय जन्मने स्तोमो विप्रेभिरासया । अकारि रत्नधातमः ॥
अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या । अका॑रि रत्न॒धात॑मः ॥
ayáṃ devā́ya jánmane stómo víprebhir āsayā́ | ákāri ratnadhā́tamaḥ ||
This hymn has been fashioned by the seers with a fervent impulse for the divine birth—most able to set the treasure within us: a formation of speech that prepares the coming-to-be of the god in the human vessel.
अ॒यम् । दे॒वाय॑ । जन्म॑ने । स्तोमः॑ । विप्रे॑भिः । आ॒स॒या । अका॑रि । र॒त्न॒ऽधात॑मः ॥अयम् । देवाय । जन्मने । स्तोमः । विप्रेभिः । आसया । अकारि । रत्नधातमः ॥ayam | devāya | janmane | stomaḥ | viprebhiḥ | āsayā | akāri | ratna-dhātamaḥ