Sukta 1.164
दिव्यं सुपर्णं वायसं बृहन्तमपां गर्भं दर्शतमोषधीनाम् । अभीपतो वृष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ॥
दि॒व्यं सु॑प॒र्णं वा॑य॒सं बृ॒हन्त॑म॒पां गर्भं॑ दर्श॒तमोष॑धीनाम् । अ॒भी॒प॒तो वृ॒ष्टिभि॑स्त॒र्पय॑न्तं॒ सर॑स्वन्त॒मव॑से जोहवीमि ॥
divyáṃ supárṇaṃ vāyasáṃ bṛhántam apā́ṃ gárbhaṃ darśatám óṣadhīnām | abhīpáto vṛ́ṣṭibhis tarpáyantaṃ sárasvantam ávase johavīmi ||
I call for help upon Sarasvant, the heavenly fair-winged one, the vast bird; the embryo of the waters, visible in the herbs—ever watching, he satisfies them by the rains: may that luminous power aid our growth into truth.
दि॒व्यम् । सु॒ऽप॒र्णम् । वा॒य॒सम् । बृ॒हन्त॑म् । अ॒पाम् । गर्भ॑म् । द॒र्श॒तम् । ओष॑धीनाम् । अ॒भी॒प॒तः । वृ॒ष्टिऽभिः॑ । त॒र्पय॑न्तम् । सर॑स्वन्तम् । अव॑से । जो॒ह॒वी॒मि॒ ॥दिव्यम् । सुपर्णम् । वायसम् । बृहन्तम् । अपाम् । गर्भम् । दर्शतम् । ओषधीनाम् । अभीपतः । वृष्टिभिः । तर्पयन्तम् । सरस्वन्तम् । अवसे । जोहवीमि ॥divyam | su-parṇam | vāyasam | bṛhantam | apām | garbham | darśatam | oṣadhīnām | abhīpataḥ | vṛṣṭi-bhiḥ | tarpayantam | sarasvantam | avase | johavīm i