The Second Sin-Destroying Hymn (Pāpaśamana Stava) and Syncretic Praise of Hari-Hara
पाञ्चालिकं हयग्रीवं स्वयम्भुवममरेश्वरम् नमस्ये पुष्कराक्षं च पयोगन्धिं च केशवम्
pāñcālikaṃ hayagrīvaṃ svayambhuvamamareśvaram namasye puṣkarākṣaṃ ca payogandhiṃ ca keśavam
अविमुक्तं च लोलं च ज्येष्ठेयं मध्यमं तथा उपशान्तं तमस्ये ऽहं मार्कण्डेयं सजम्बुकम्