अग्ने॑ व्रतपा॒स्त्वे व्र॑त॒पा या तव॑ त॒नूरि॒यᳪ सा मयि॒ यो मम॑ त॒नूरे॒षा सा त्वयि॑ । स॒ह नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒र्मन्य॑ता॒मनु॒ तप॒स्तप॑स्पतिः
ágnē vratapās tvē vratapā yā táva tanū́r iyáṃ sā máyī yó máma tanū́r ēṣā sā tváyi | sahá nau vratapatē vratā́ny ánu mē dīkṣā́ṃ dīkṣā́patír mányatām ánu tápaḥ tápaspatíḥ
Agni, Hüter des Gelübdes: du bist der Hüter des Gelübdes. Dein Leib — dieser — ist in mir; und mein Leib — dieser — ist in dir. Gemeinsam, o Herr des Gelübdes, mögen wir den Gelübden folgen; der Herr der Weihe (Dīkṣāpati) möge meine Weihe billigen; der Herr des Tapas (Tapaspati) möge meinen Tapas billigen.
अग्ने । व्रत-पाः । त्वे । व्रत-पाः । या । तव । तनूः । इयम् । सा । मयि । यः । मम । तनूः । एषा । सा । त्वयि । सह । नौ । व्रत-पते । व्रतानि । अनु । मे । दीक्षाम् । दीक्षा-पतिः । मन्यताम् । अनु । तपः । तपस्-पतिः