द्यां मा ले॑खीर॒न्तरि॑क्षं॒ मा हि॑ᳪसीः पृथि॒व्या सम्भ॑व । अ॒यᳪ हि त्वा॒ स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौ॑भगाय । अत॒स्त्वं दे॑व वनस्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यᳪ रु॑हेम
dyā́ṃ mā́ lekhīr antárikṣaṃ mā́ hiṃsīḥ pṛthivyā́ḥ sámbhava | ayáṃ hí tvā svádhitiḥ téti-jānaḥ prá nināya maháte sáubhagāya | atáḥ tvaṃ deva vanaspate śatá-valśo ví roha sahásra-valśā ví vayáṃ ruhema
Do not thou scar the sky; do not injure the mid-air: from the earth be thou produced. For this axe, knowing thee, hath led thee forth for great good fortune. Therefore, O divine Lord of the Forest, grow thou again with a hundred shoots, grow thou again with a thousand shoots; and may we grow forth (in prosperity).
द्याम् । मा । ले॑खीः । अ॒न्तरि॑क्षम् । मा । हि॑ᳪसीः । पृथि॒व्याः । सम्भ॑व । अ॒यम् । हि । त्वा । स्वधि॑तिः । तेति॑-जानः । प्र-नि॒नाय॑ । मह॒ते । सौ॑-भागाय । अतः । त्वम् । देव । वनस्पते । श॒त-व॑ल्शः । वि । रो॑ह । स॒हस्र॑-व॑ल्शाः । वि । व॒यम् । रु॑हेम ।