क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॑म॒राज्यं॑ गच्छतु रिप्रवा॒हः । इहै॒वायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्
kravyā́dam agníṃ prá hiṇomi dūráṃ yama-rā́jyaṃ gacchatu ripra-vā́haḥ | iháivā́yam itáro jātá-vedā devébhyo havyaṃ vahatu prajā́nann ||
Den fleischverzehrenden Agni treibe ich weit fort; der Träger der Unreinheit gehe in das Reich Yamas. Hier aber bleibe der andere, Jātavedas; und, seines Amtes kundig, trage er den Göttern die Opfergabe.
क्र॒व्याद॑म् । अ॒ग्निम् । प्र । हि॑णोमि । दू॒रम् । य॒म-रा॒ज्यम् । ग॑च्छतु । रि॒प्र-वा॒हः । इ॒ह । ए॒व । अ॒यम् । इ॒तरः । जा॒त-वे॑दाः । दे॒वेभ्यः॑ । ह॒व्यम् । व॑हतु । प्र॒जा॒नन्