यां मे॒धां दे॑वग॒णाः पि॒तर॑श्चो॒पास॑ते । तया॒ माम॒द्य मे॒धयाऽग्ने॑ मे॒धावि॑नं कुरु॒ स्वाहा॑
yā́ṃ medhā́ṃ devagaṇā́ḥ pitáraś copā́sate | táyā mā́m adyá medháyā́gne medhā́vinaṃ kuru svā́hā
Jene Medhā, die die Scharen der Götter und die Väter (Pitṛs) verehren — mit eben dieser Medhā mache mich heute, o Agni, medhā-begabt. Svāhā!
याम् । मेधाम् । देव-गणाः । पितरः । च । उपासते । तया । माम् । अद्य । मेधया । अग्ने । मेधाविनम् । कुरु । स्वाहा