यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै । स॒न्दान॒मर्व॑न्तं॒ पड्वी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति
yád áśvāya vā́sa upastr̥ṇánty adhīvā̱sáṃ yā́ híraṇyāny asmai | sandā̱nám árvantaṃ paḍvī́śaṃ priyā́ devéṣv ā́ yāmayanti
Welches Tuch sie unter dem Pferd ausbreiten, welche Decke sie ihm auflegen, welche goldenen Zierden ihm (bestimmt sind) — die Anbindung des Renners, seine Spur und sein Tritt: als Liebesgaben mögen sie dies zu den Göttern bringen.
यत् । अश्वाय । वासः । उप-स्तृणन्ति । अधि-वासम् । या । हिरण्यानि । अस्मै । सन्दानम् । अर्वन्तम् । पड्वीशम् । प्रियाः । देवेषु । आ । यामयन्ति